अध्याय - 2
भूतसंघनायकं विशाल कीर्तिदायक,
काशिवासलोकपुण्यपाप शोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं,
काशिकापुराधिनाथ कालभैरवं भजे ॥ 8 ।।सामाम पातु सरस्वती भगवती निःशेषजाड़या पहा।।प्रातःस्तुतीमंत्र व भैरव स्तोत्र
ॐ
ॐ गणेशाय नमः
ॐ गं गणपतये नमः
ॐ महागणाधिपतये नमः
ॐ मेधा वाणी भारती त्वं, बिद्या माता सरस्वती।
ब्राह्मी भाषा वर्णमयी पराऽऽया कृतिरव्यया ।
विकल्पा निर्विकल्पाऽजा कला नादमयी क्रिया ।
कालशक्ति सर्वरुपा शिवा श्रुतिर त्तरा ||2 ||
ॐ सिंहादुत्थाय को पाद्धघड घड घड द्वावमाना भवानी।
शत्रूणां शस्त्रपातस्ततड तड तड त्रोटयन्ती शिरांसि ।।
तेषां रक्तं पिवन्ती घुघुट घुट घुटं घोटयन्ती पिशाचांस्तृ,
त्यां स्तृत्पान्हसन्ती खखल खलखलः शाम्मवी वः पुनातु ।।
ॐ कं कं का का हसन्ती प्रहसित वदने भक्षयन्ती कराली,
छु छु छा छा छरन्ती रिपुकुलदमनी खङग चक्र शिरांसि ।
क्लीं क्लीं क्लीं कालरात्री भवमय हरणी वज्र हस्तं धरन्ती,
भक्तानां पालयन्ती सकल सुख करी कालिका वः पुनातु ।।
ॐ कुं कुं फुल्लारशब्दं वसति फणिपतिर्जायते यस्य कण्ठे,
डिं डिं डिन्भातिडिन्भं कलयति डमरु यस्य प्राणौ प्रकभ्याम् ।
तक तक तन्दान्ति किन्धादिगितिधिगितिगीर्गीयते व्योमवाम्भि,
कल्पान्ते ताण्डवीयस्सकल भय हरो भैरवो वः सपायात् ।।
ॐ या सा पदमासनस्था विपुलकटितटी पद्मपत्रायताक्षी,
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तराया।
लक्ष्मीदिव्यै जेन्द्रैर्मणि गणरवचितैः स्नापिता हेमकुम्भर्नित्यं,
सा पदमहस्ता मम वसतु गृहे सर्वमाङ्ग ल्ययुक्ता ।।
ॐ अहो बकी यं स्तनकाल कूटं जिघासयापायदप्य साध्वी ।
लेभे गति घात्र्युचिता ततोन्यं कं वा दयालु शरणं व्रजेम ।।
श्रीमदभागवत् ३।२।२३
ॐ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम्रत्य सत्यनेत्रं सत्यात्मकं त्वां शरण प्रपन्ना ।।
श्रीमदभागवत् १०१२।२६
ॐ वर्मापीडं नटवरवपुः कर्णयो कर्णिकारं विभ्रदवासः कनक कपिशं वेजयन्तीं
च मालाम ।
रन्धान् वेणोरधरं सुधया पूरयन् ग्रोपवृन्दैर्वृन्दारण्यं स्वपद रमणं
प्राविशद गीतकीर्तिः ।।
श्रीमदभागवत् १०।२११५
ॐ नौमीद्वय तेऽभ्रवपुषे तडिदम्वराय गुन्जावतंसपरिपिच्छल सन्मुखाय।
वन्यस्रजे
कवल वेत्रविषाण वेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्ग जाय।।
श्रीमदभागवत् १०/१४।१
ॐ वंशीविभूषित करान्न नव नीरदाभात पीताम्बरादरुण विम्बाफला धरोष्ठात
पूर्णेन्दु सुन्दर मुखादविन्द नेचात कृष्णात् परम किमपि तत्व महम न जानि ।।
ॐ कृष्णाय वासुदवाय दवका नन्दनाय च नन्द गाय कुमाराय गोविन्दाया नमो नम :||
ॐ मेघानाद घटा घटा घट घटा घाटा घटा धुर्घटा मण्डूकस्य वको वको
वक वको वको वको दू वको ।
विधुतज्योति चकी मकी चक मकी चाकी मकी दृश्यते इत्थ नन्दकिशोर गोपवनिता वाचस्पतिः पातवः ।|
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदुःख भयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदा चित्ता ।।
ऊ काल्य काल्य भद्रकाल्य महाकाल्य नमो नमः ।
नमः प्रकृति भद्रायै शिवायै सततं नमः ।।
कर्पूर गौर करूणावतारं संसारसारं भुजगेन्द्रहार
सदावसन्तं हृदयारविन्दे भवंभवानी सहितं नमामि ।
महामृत्युन्जय
ॐ हस्ताम्या कलशद्वयामृतरसै राप्ला वयन्तं शिरो
द्वाम्यांतौ दघतं मृगाक्षवलये द्वाम्यां वहन्तं परम ।
अंकन्यस्त करद्वयामृत घटं कैलाश कान्तं शिवं
स्वच्छाम्भोजगतं नवेन्दु मुकुटं देवं त्रिनेत्रभजे ।।
महेश
ॐ ध्यायेनित्यं महेश रजत गिरिनिभं चारु चन्द्रावतंसं ।
रत्नाकल्पाज्ज्वलांग म परशु मृग वरा भीति हस्तं प्रसन्नं ।
पदमासान समन्तीत स्तुतममरगण व्याध कृति वसानं विश्वाध्य
विश्ववीज निखिलभय हरं पन्चवक्त्रयं त्रिनेत्रं ।
अर्द्धनारीश्वर
ॐ नील प्रवालरुचिरं विलसत्त्रिनेत्रं पाशारुणोत्पल कपालकशूल हस्तं
अर्द्धाम्विकेश मनिशं प्रविभक्तभूषं बालेन्दुवद्ध मुकुटं प्रणमामि रुपं ।।
ॐ चन्द्रार्कग्नि विलोचनं स्मित मुखं पद्मद्वयान्तः स्थितं । मुद्रापाश मृगाक्षसूत्र
विलसत्पाणिं हिमांशुप्रभम् । कोटीन्दु प्रगलत्सुधाप्लुत तनुं हारादि भूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मृत्युन्जयं भावयेत् ।।
ॐ कस्तूरी तिलक ललाट पटले वक्षस्थले कौस्तुभं नासाग्रेवरमौक्तिकं करतले
वेणुकरे कंकणम् । सर्वांगे हरिचन्दनं सुललितं कलयन्ठे च मुक्तावलिंगोपस्त्री
परिवेष्टितो विजयतेगोपाल चूड़ामणिः ।।
महागायत्री
ॐ मुक्ताविद्रुम हेम नील धवलच्छायै खै स्व्यक्षणैर्युक्तामिंदुकला निबद्ध रत्न
मुकुटां तत्वार्थवर्णात्मिकाम्। गायत्री वरदा भयांकुशकशां शुभं कपालं गदां
शंखं चक्रमधारविंद युगलं हस्तैर्वहन्तीं भजे ।।
यं शैवाः समुपासते शिव इति व्रतिवेदान्तिनो, बौद्वाबुद्ध इति प्रमाण पटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैन शासनरताः कर्मेति मीमांसका, सोऽयं नोविदधातु वांच्छितफलं त्रैलोक्यनाथोहरि ।।
नान्या स्पृहा रघुपते हृदयेऽस्मदीये, सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्ति प्रयच्छ रघुपुङ्ग व निर्भरां में कामादिदोष रहितं कुरु मानसं च ।।
प्रातः स्मरामि हनुमन्तमनन्तवीर्य श्री राम चंद्र चरणाम्बुज चन्चरीकम् ।
लंकापुरी दहन नन्दित देव वृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ।।
पंचवक्त्र महाभीम त्रिपंचनयनंयुतम् ।
वाहभिर्दशभिर्युक्त सर्वकाम्यार्थ सिद्धिदम् ।।हनूमान ।।
पंचास्यमच्युतमनेक विचित्रवीर्य वक्त्रं सुशङ्कविघृतं कपिराजवर्यम् ।
पीताम्बरादिमुकुटैरभिशोभिताङ्ग पिङगाक्षमाद्यमनिशं मनसा स्मरामि ।। हनू ।।
याकुन्देन्दुतुषारहार धवला या शुभ्रवरत्राव्रता ।
या वीणावर दण्ड मण्डित करा या श्वेतपद्मासना ।।
या ब्रह्माच्युत शंकर प्रभृतिभिर्देवैः सदा वन्दिता सामाम पातु सरस्वती भगवती निःशेषजाड़या पहा।।
हनूमन यत्नमास्थाय दुःख क्षयकरो भव ।
स तथेति प्रतिज्ञाय मारुति भीमे विक्रम ।।
न्यास करें
ॐ हाँ बां ईशानः सर्वविद्यानागीश्वरः सर्वभूतानां ग्रहाधिपति
ब्रह्मणोधिपतिब्रह्मा शिवो मे अस्तु सदाशिवोम् ।।
ॐ ह्रीं बीं तत्पुरुषाय विध्महे महादेवाय धीमहि ।
तन्ना रुद्रः प्रचोदयात ।।
ॐ हूँ बूं अधोरेभ्योऽथ घोरेभ्यो घोर घोरतरेभ्यः
सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररुपेभ्यः ।।
ऊब वामदाय नमा ज्याय नमः प्राय नमा रुद्रीय नमः कालाय नमः
कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः
सर्वभूतदमनाय नमो मनोन्मनाय नमः ।।
ॐ हों बौं सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।।
ॐ ह्रः बः पंचवक्त्राय महादेवाय नमः ।।
ॐ ह्रीं क्ष्म ब्रौं ह्रीं ॐ स्वाहा आपदुद्धारण भैरवाय नमः ।।
ॐ आं हीं क्रों यं रंलं वंशं हों अंक्षं सं हं सः ही अं हंसः अस्य दीपस्य प्राणाः
इह प्राणा ॐ आं २४ जीव इह स्थितः । ॐ आं २४ सर्वेन्द्रियाणि स्थितानि
ॐ आं २४ वाड़मनस्त्वक्चक्षुः श्रोत्र जिव्हा घ्राण प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।।
ॐ ह्री श्री ल्कीं ह्रीं श्रीं बं सर्वज्ञाय महाबल पराकमाय वटकाय इमं दीपं ग्रहाण
र्वकार्यार्थ साधकाय दुष्टान्नाशय दुष्टान्नाशय त्राशय त्राशय सर्वतो मम
रक्षां कुरु कुरु फट स्वाहा ।ऊँ|
( भगवान भैरव को दीपक अर्पण करे)
गृहाण दीप देवेश वटुकेश महाप्रभो ।। ममाभीष्टं कुरु क्षिप्रमाप यो मां समुद्धरं ।। मूलमुच्चार्य वटुकाय इमं दीपं निवेदयामि नमः ।
ॐ ऐ ह्रीं श्री महेश्वराय विमहे सुधादेव्यै च धीमहि । तन्नो ऽर्द्धनारीश्वरः प्रचोदयात् ।
(- स्तोत्र पाठ आरम्भ करे -)
ॐ गणेशाय नमः ॐ श्रीमन महा गणाधिपतये नमः
ॐ गं गणपतये नमः
अथ बटुकभैरवस्तोत्रम् ॐ मेरुपृष्ठे सुखासीनं देवदेवं जगद्गुरुम् ।। शकर पारपप्रच्छ
पार्वती परमेश्वरम् ।। १ ।। पार्वत्युवाच ।। भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।। आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम्
।।2।। सर्वेषां चैव भूतानां हितार्थ वाच्छितं मया ।। विशेषतस्तु राज्ञां वै
शान्ति-पुष्टिप्रसाधनम् ।। ३ ।। अग्न्यासकरन्यासदेहन्यास समन्वितम् ।।
वक्तुमर्हसि देवेश मम हर्षविवर्धनम् ।। 4 ।।
ईश्वर उवाच ।। श्रृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।। सर्वदुःखप्रशमनं
सर्वशत्रुविनाशनम् ।। 5 ।। अपस्मारादिरोगाणां ज्वरादीनां विशेषतः||
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये । 16 ।।
ग्रहरोगभयानां च नाशनं सुखवर्धनम् ।। स्नेहाद्वक्ष्यामि ते मन्त्र सर्वसारमिमं
प्रिये ।। 7 ।। सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् ।। आपदुद्धारणमिति
मन्त्रं वक्ष्याम्यशेषतः ।। 8 ।।
प्रणवं पूर्वमुद्धृत्य देवीप्रणवमुद्धरेत् ।। बटुकायेति वै पश्चादपदुद्धारणाय
च ।। १ ।।
कुरुद्वयं ततः पश्चाद बटुकायेति वै पुनः ।। देवीप्रणवमृद्धत्य मन्त्रोद्धारमिमं प्रिये ।। 10 ।।
मन्त्रोद्धारमिमं देवि त्रेलोक्ये चातिदुर्लभम् ।।
अप्रकाश्यामिमं मन्त्रं सर्वशक्तिसमन्वितम् ।। 11 ।
स्मरणादेव मन्त्रस्य
भूतप्रेतणिशाचकाः ।। विद्र्वन्त्यतिभीता वै कालरुद्रादिव प्रजाः ।। 12 ।।
मंत्र- ॐ ही वटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ही ऊँ ।।
पठेद्धा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।। नाग्निचोरभयं तत्र ग्रहराजभयं
तथा ।। 13 ।।
न च मारीभयं किज्चित्सर्वत्र सुखवान् भवेत ।।
आयुरारोग्यमेश्रक्यर्य पुत्रपौत्रादिसम्पदः ।। 14 ।।
भवन्ति सततं तस्य
पुस्तकस्यापि पूजनात् ।। न दारिद्र्यं न दौर्भाग्यं नापदो भयमेवं च ।। 15 ।।
पार्वत्युवाच ।।क एष भैरवो नाम आपदुद्धारणो मतः ।। त्वया च
कथितो देव भैरवः कल्प उत्तमः ।। 16 ।।
तस्य नामसहस्त्राणि अर्यतान्यर्बुदानि
च ।। सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ।। 17 ।।
यानि संकीर्तयन्मर्त्यः
सर्वदुःखविवर्जितः ।। सर्वान्कामानवाप्नोति साधकः सिद्धिमेव च ।। 18 ।।
ईश्वर उवाच ।। श्रृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।।आपदुद्धारणस्येदं नामाष्टशतनुत्तमम् ।। 19 ।।
सर्वपापहरं पुण्यं
सर्वापन्तिविनाशनम् ।। सर्वकामार्थदं देवि साघकानां सुखावहम् ।। 20 ।।
सर्वमंगलमांगल्यं सर्वोपद्रवनाशनम् ।। आयुः करं पुष्टिकरं श्रीकरं च यशस्करम्
11 21 11
नामाष्टशतकस्यास्य छन्दोऽनुष्टुप्प्रकीर्तितं ।। बृहदारण्यको नाम
ऋषिर्देवोऽथ भैरवः ।। 22 ।।
अष्टवाहुं त्रिनयनमिति बीजं समाहितम् ।।
शक्तिकं कीलकं शेषमिष्टासिद्धो नियोजयेत् ।। 23 ।।
सर्वकामार्थसिद्धयर्थ
विनियोगः प्रकीर्तितः देहान्तं न्यासकं चैव पूर्व कुर्याच्च साधकः ।। 24 ।।
हीं
बीजं बटुकः शक्तिः प्रणवः कीलकं मतम् ।। 25 ||
अथ देहन्यासनामानि । भैरवं मूर्ध्नि विन्यस्य ललाटे भीम दर्शनम् ।।
नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ।। 26 ।।
कर्णयो भूतनाथं च प्रेतवाहं
कपोलयोः ।। नासापुटोष्ठयोश्चैव भस्मांग सर्प भूषणम् || 27||
अनादिनाथमास्ये च शक्तिहस्तं गले न्यसेत् ।। स्कन्धयोर्देत्यशमनं वाहोरतुलतेजसम् ।। 28 ।।
पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम्
शान्तं वक्षःस्थले न्यस्य स्तनयोः कामचारिणम् ।। 29 ।।
उदरे च सदा तुष्टं ्षेत्रेशं पार्श्वयोस्तथा ।। क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञ नाभिदेशके ।। 30
पापौधनाशनं कट्यां बटुक लिंग देशके ।। गुदे रक्षाकरं न्यस्य तथोव
रक्तलोचनम् ।। 31 ।।
जानुनोर्चुर्घरारावं जंघयो रक्तंपाणिनम् ।। गुल्फयोः
पादुकासिद्धं पाद पृष्ठे सुरेश्वरम् ।। 32 ।।
आपादमस्तकं चेव आपदुद्धारकंतथा ।
अथ दिड़न्यास-पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ।। 33 ||
खङगहस्तं पश्चिमे च घण्टावादिनमुन्तरे ।। आग्नेयामग्निवर्ण च नैऋत्ये च
दिगम्बरम् ।। 34 ।।
ऊर्ध्व खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ।। 35 ।|
एवं विन्यस्य देहेषु षडङ्गनेषु ततो न्यसेत् ।।
रुद्रमंगुष्ठयोन्येस्य तर्जन्योस्तु शिखीसखम् ।। 36 ।।
शिवं मध्
यम-योस्यानामिकायां त्रिशूलिनम् ।। ब्रह्माणं तु कनिष्ठायां
तलयोस्त्रि-पुरान्तकम् ।। 37 ।। मांसाशिनं कराग्रे तु करपृष्ठे दिगम्बरम् ।।
हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ।। 38 ।।
आनन्द पादपूर्वायनाथयच शिखासु च ।। सिद्धेशाम्बरनाथाय कवचे विन्यसत्तथा ।। 39 ।।
सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च ।। परमानन्दनाथाय अस्त्रे चैव प्रयोजयेत् । |40 ।।
एवं न्यासविधिं कृत्वा यथावन्तदनन्तरम् ।। ध्यायेच्चैव महेशानि साधकः सर्वसिद्धये ।। 41||
ध्यानम्-शुद्धस्फटिकसंकाशं सहस्त्रादित्यवर्चसम् ।।42||
नील जीमूतसंकाशं नीलाजनसमप्रभम् ।। अष्टबाहुं त्रिनयनं चतुर्बाहु द्विवाहुकम् ।। 43 ।।
दंष्ट्राकरालबदनं नूपुरारावसंकुलम् ।। भुजङ्ग मेखलं देवमग्निवर्णशिरोनहम् ।। 44 ।।
दिगम्बरं कुमारेशं बहुकाख्यं महाबलम् खट्वन मसिपाशौ च शूल दक्षिण भागतः ।। 45 ।।
डमरू च कपालञ्च वरदं भुजगं तथा ।। अग्निवर्णं समोपेतं सारमेयसमन्वितम् ।। 46 ।।
ध्यात्वा जपेत्सुसन्तुष्टः सर्वान्कामानवाप्नुयात् ।। 47 ।।
अथ सात्त्विक ध्यानम् – वन्दे वालं स्फटिकसदृशं कुन्तलोभ्दासिक्त्र, दिव्याकल्पैर्नवमणिमयेः किंकिणीनूपुराढ्य 😐
दीप्ताकारं विशदवदनं सुप्रसन्नं महेशं,
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गोदधानम् ।। 48 ।।
अथ राजस ध्यानम्
उद्यभ्दास्करसन्निभं त्रिनयनं रक्ताङ्ग रागस्त्रजं,
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करेः
नीलग्रीवमुदारभूषणयुतं शीतांशुखंडोज्ज्वलं,
अथ तामस ध्यानम्
बन्धूकारूणवाससं भयहरं वन्दे सदा भैरवं ।। 49 ||
ध्यायेत्त्रैलोक्यकान्तं शशिशकलधरं मुण्डमालं महेश,
दिग्वस्त्रं पिङ्ग केशं डमरूमथ सृणिं खड्गशूलो दधानम्
नागं घण्टां कपालं करसरसिहेर्विभ्रतं भीमदंष्ट्र,
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किंकिणीनूपुराख्याम् ।। 50 ।।
ॐ करकलितकपालः कुण्डलीदण्डपाणिः ।
तरूणतिमिरनीलव्यालयज्ञोपवीती ।। ऋतुसमयसपयाविघ्नविच्छेद हेतु
जयति बटुकनाथः सिद्धिदः साधकानाम् || 51 ||
ध्यात्ता जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् ।। 52 ||
अस्य श्रीबटुकभैरवनामाष्टशत का ऽऽदुद्धारणस्तोत्रमन्त्रस्य वृहदारण्यक ऋषिः ।
श्रीबटुकभैरवो देवता । अनुष्टुष्छन्दः । ह्रीं बीजम् । बटुकायेति शक्तिः । प्रणवः कीलकम् । अभीष्टसिद्धयर्थे जपे विनियोगः ।।
ओम् हां बां अङ्गुष्ठाभ्यां नमः । ओम् ह्रीं बीं तर्जनीभ्यां स्वाहा । ओम् हूँ बूं मध्यमाभ्यां वषट् ।
ओम् हैं बैं अनामिकाभ्यां हुम् । ओम् ह्रौं बौं कनिष्ठिकाभ्यां वौषट् । आम् ह्रःबः करतलकरपृष्ठाभ्यां फट् इति करन्यासः ।।
हृदयादि न्यास करे – अथ षडङ्ग न्यास ओम् हां बां हृदयाय नमः । ओउम् ह्रीं बीं शिरसे स्वाहा ओम् हूँ हूँ शिखायै वषट् ।
ओउम् हैं बें कवचाय हुम् । ओम् ह्रौं बौं नेत्रत्रयाय वौषट् । ओम् ह्रः बः अस्त्राय फट् |
नमस्कारमन्त्र -ॐ ह्रीं हौं नमः शिवाय
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् । 01 ||
मशानवासी मांसाशी खर्पराशी स्मरान्त कृत् ।|
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ||02 ||
कंकालः कालशमनः कलाकाष्ठातनुः कविः ।।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ||03 ||
शूलपाणिः खङ्गपाणिः कंकाली धूम्रलोचनः ।।
अभीरूभैरवीनाथो भूतपो योगिनीपतिः ।।04 ।।
धनदो धनहारी च धनवान् प्रतिभानवान्ः ।।
नागहारो नागपाशो व्योमकेशः कपालभूत ||05||
कालः कपालमाली च कमनीयः कलानिधिः ।।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः । 06 ।।
त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः ।।
बटुको बहुवेशश्च खट्वाङ्ग वरधारकः । 07 ।।
भूताध्यक्षः पंशुपतिर्भिक्षुकः परिचारकः ।।धूत दिगम्बरः शूरो हरिणः पांडुलोचनः ।।08 ।।
प्रशान्तः शान्तिदः सिद्धः शंकरः प्रियबान्धवः ।।
अष्टमूर्तिनिधीशश्च ज्ञानचक्षुस्तपोमयः ।|09 ।।
अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।।
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ।।10 ।।
कंकालधारी मुण्डी च नागयज्ञोपवीतिकः
जृम्भणो मोहनःस्तम्भी मारणः क्षोभणस्तथा ।।11||
शुद्धोनीलाज्जनप्रख्यो देत्यहा मुण्डभूषितः ।।
बलिभुग्बलिभुङ्गनाथो बालो बालपराक्रमः ।।12 ।।
सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।।
कामी कलानिधिः कान्तः कामिनीवशद्वशी ।।13 ।।
सर्वसिद्धिप्रदो वैद्यः प्रभुविष्णुरितीवहि ।।
अष्टोत्तरशतं नाम्ना भैरवस्य महात्मनः ।।14 ||
मया ते कथितं देवि रहस्यं सार्वकामदम् ।।
य इदं पठते स्तोत्रं नामाष्टशतमुत्तमय् ।।15 ।।
न तस्यदुरितं किन्चिन्नच भूतभयं तथा ।।
न च मारीभयं तस्य ग्रहराजभयं तथा ।।16 ।।
न शत्रुभ्यो भयं क्वापिप्राप्नुयान्मानवः कचित् ।।
पातकानां भयं नैव यः पठेत्स्तोत्रमुत्तमम् ।।17 ||
मारीभये राजभये तथा चौराग्निजे भये ।।
औत्पातिके भये चैव तथा दुःस्वप्नजे भये ।। 18 ||
बन्धने च तथा घोरे पठेत्स्तोत्रमनुक्तमम् ।।
सर्व प्रशनमायाति भयं भैरवकीर्तनात् ।| 19 ||
एकादशसहस्रं तु पुरश्चरणमुच्यते ।।
यस्त्रिसन्ध्यं पठेद्देशी संवत्सरमतन्द्रितः ।।20 ।।
स सिद्धिमाप्नुयादिष्टां दुर्लभामपि मानवः ।।
षण्मासाद्भूमिकामस्तु जपित्व, प्राप्नुयान्महीम् ।।21 ।।
राजशत्रु विनाशाय जपेन्मासाष्टकं यदि ।।
रात्रो बास्त्रयं चैव नाशयेत्येव शात्रवान् ।|22 ।।
जपेन्मासत्रयं मय राजानं वशमानयेत्
धनार्थं च सुतार्थ च दारार्थ यस्तु मानवः ।।23 ||
जपेन्मासत्रयं देवि वारमेकं तथा निशि ।
धनपुत्रांस्तथा दारान्प्राप्नुयान्नात्र संशय | 24||
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
भीतो भयात्प्रमुच्येत देवि सद्योन संशयः ।।25||
निगडैश्चापि यो वद्धः कारागृहनिपातितः ।
श्रृंखलाबन्धनं प्राप्तः पठेच्चेदं दिवानिशि ||26 ।।
यान्यान्समीहते कामांस्तां स्तान्प्राप्नोति निश्चितम् ।
अप्रकाश्यमिदं गृह न देयं यस्य कस्यचित ।।27 ||
सुकुलीनाय शान्ताय ऋजवेदम्भवर्जिते
दद्यात्स्तोत्रमिदं पुण्यं सर्वकाम फलप्रदम् ।|28 ।।
इति श्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
जजाप परया भक्त्या सदा सर्वेश्वरेश्वरी ।।29 ।।
भैरवस्तु प्रहृष्टोऽभूत्सर्वज्ञः परमेश्वरः ।
वरं ददाति भक्तेभ्यो पठेत्स्तोत्रमनन्यधीः ।।30 ।।
सन्तोष परमं प्राप्य भैरवस्य महात्मनः ||
वारं वारं भुवनजननी प्रोच्यते साधुवादः,
सत्यं सत्यं जगति सकले भैरवो देव एकः ।
यां यां सिद्धि भुवनजठरे कामयेन्मानवो यः,
तां तां सिद्धिं वितरति सदा भैरवः सुप्रन्नः ।।31 ||
पाणिभ्यां परितः प्रपीड्यसुदृढं निश्चोत्य निश्चोत्य च,
ब्रह्माण्डं सकलं प्रचालितरसालोच्यैः फलाभंमुहू ।
पायपायमपाययस्त्रिजति उन्मत्तवतै रसै-
नृत्यस्तांडवमंबरेण शिरसा पायान्महा भैरवः । । 32 ||
विभ्राणः शुभ्रवर्ण व्दिगुणनवभुजं पंचवक्त्रं त्रिनेत्रं,
ज्ञानं मुद्रेन्द्रशस्त्रं सविषममुतकं शरव भैषज्य चापं ।
शूलं रवट्वागंबाणान्डमरुमसिगदा वन्हिमारोग्य,
मालामिष्टाभीति च दोर्भिर्जयति रवलु महाभैरवः सर्वसिद्धि यै ।।33 ।।
क्वाकाशः क्वसमीरणःक्वदहनक्वापन्च विश्वंभरः ।
क्वब्रह्मा क्वजनार्दनः क्वतरणिःक्वन्द्रेश्चदेवासुरः ।|34 ।।
कल्पान्तभदिशाटन प्रभूदितः श्री सिद्ध योगीश्वरो।
क्रीडानाटकनायको विजयते देवो महा भैरवः । ।35 ।।
लिरिवत्वा परया भक्त्या भैरवस्तौत्रमुत्तमम् ।
अष्टानां ब्राह्मणानां च देयं पुस्तकमादरात् ।।36 ।।
यां यां समीहते कामांस्तांस्तां प्राप्नोत्यसंशयम् ।
इह लोके सुरवं प्राप्य पुस्तकस्य प्रसादतः । । 37 ||
शिवलोकेमनप्राप्य शिवेन सह मोदते । 38 ।।
।। इति श्रीरुद्रयामलतन्त्रे आपदुद्धारणं भैरवस्तोत्रं समाप्तम् ।।
ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरू कुरू बटुकाय ही ॐ||
अथ कालभैरवाष्टक स्तोत्रम्
देवराज सेव्यमानपावनांघ्रि पंकजं,
ब्यालयज्ञसूत्रबिन्दु शेखरं कृपाकरम् ।
नारदादियोगिवृंदवंदितं दिगंबरं,
काशिकापुराधिनाथ कालभैरवं भजे ।। 1 ।।
भानुकोटि भास्करंभवाब्धि तारक परं,
नीलकंठमीप्सितार्य दायकम् त्रिलोचनम्
कालकालमं बुजाक्षमक्षशूलमक्षरं,
काशिकापुराधिनाथ कालभैरवं भजे ।। 2 ।।
शूलटंक पाशदंडपाणिमादिकारणं,
श्यामकाममादिदेवमक्षयं निरामयम ।
भीमविक्रमप्रभु विचित्रतांडवप्रियं,
काशिकापुराधिनाथ कालभैरवं भजे ।। 3 ।।
भुक्तिमुक्तिदायक प्रशस्तचारु विग्रहं,
नितान्त भक्तवत्सलं समस्तलोकविग्रहम् ।।
निक्रणन्मनोज्ञहेमकिंकणीलसत्कटिं,
काशिकापुरधिनाथ कालभैरवं भजे ।। 4 ।।
धर्मसेतुपालकं कुधर्ममार्गनाशनं,
कर्मपाशमोषक सुधर्मदायकं विभुम्
स्वर्ण बर्ण केशपाश शोभितुण्ड मंडलं,
काशिकापुराधिनाथ कालभैरवं भजे ।। 5 ।।
रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मत्यदर्पनाशकं करावदंष्ट्रभीषणं, काशिकापुराधिनाथ कालभैरवं भजे ।। 6 ।।
अट्टहास भानुपद्म जांडकाशसन्ततिं, दृष्टिपात नष्टपाप जालमुग्रशासनम् ।
अष्टसिद्धिदायक कपालमालिकाधरं, काशिकापुराधिनाथ कालभैरवं भजे ।। 7 ।।
भूतसंघनायकं विशाल कीर्तिदायक,
काशिवासलोकपुण्यपाप शोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं,
काशिकापुराधिनाथ कालभैरवं भजे ॥ 8 ।।
कालभैरवाष्टक पठति ये मनोहरं,
ज्ञानमुक्ति साधनं सुपुष्टिपुण्यवर्धनम् ।
शोकमोहदैन्यलोभ कोपतापनाशनं,
काशिकापुराधिनाथ कालभैरवं भजे ।। 9।।
।। श्रीमदशंकराचार्यविरचितं कालभैरवाष्टकस्तोत्रं संपूर्णम् | |
अथ भैरवाष्टकम्
ॐ यं यं यं यक्षरुपं दशदिशि वदनं भूमिकंपाय मानम् ।
सं सं सं संहारमूर्ति शिरमुकुटजटा शेखरं चन्द्रविम्वम् दं दं दं दीर्घकायं विकृतनखमुखं ऊर्ध्वरोमं करालं ।
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 1 ।।
ॐ रं रं रं रक्तवर्ण कटकटिततनुं तीक्ष्णदंष्ट्रा करालम् ।
घं घं घं घोष घोष घघ घघ धटितं घर्घरा घोर नादम् ।
कं कं कं कालरूपं धिग धिग धृगितं ज्वालितकामदेहम् ।
दं दं दं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 2 | |
ॐ लं लं लं लंवदन्तं लल लल लुलित दीर्घजिव्हा करालम् ।
धुं धुं धुं धूम्रवर्ण स्फुट विकृतमुखं भासुरं भीमरुपम् ।
रु रूं रूं रूण्डमाल रुधिरमय मुखं ताम्रनेत्र विशालम् ।
नं नं नं नग्नरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 3 ||
ॐ वं वं वं वायु वेगं प्रलय परिमितं ब्रह्मरूपस्वरूपम् ।
खं खं खं खंग हस्तं त्रिभुवन निलयं भास्करं भीमरूपम् | |
चं चं चं चालयंत चल-चल चलितं चालितं भूतचक्रम् । मं में मं माय रूपं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 4 ।।
ॐ शं शं शं शंख हस्तं शशिकरधवलं यक्ष सम्पूर्ण तेजम् ।
मं मं में माय मायं कुलमकुल कुलं मंत्रमूर्ति स्वतत्वम् ।
भं भं भं भूतनाथ किलकिलित वचश्चारूगृहालु लंतं ।
अं अं अं अंतरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 5 | |
ॐ खं खं खं खड्गभेदं विषममृतमयं काल कालांधकारम् ।
क्षीं क्षीं क्षीं क्षिप्रवेगं दह दह दहनं गर्वितं भूमिकम्पं ।
शं शं शं शान्तरूपं सकल शुभकरं देवगंधर्व रूपम् ।
वं वं वं वाल लीला प्रणमत सततं भैरवं क्षेत्रपालम् ।। 6 ।।
ॐ संसं सं सिद्धियोगं सकल गुणमयं देवदेव प्रसन्नम् ।
पं पं पं पद्मनामं हरिहर वरदं चन्द्रसूर्याग्नि नेत्रम् ।
जं जं जं जक्षनागं सतत भयहरं सर्वदेव स्वरूपम् | |
रौं रौं रौं रौंद्र रूपं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 7 ।।
ॐ हं हं हं हंसघोष हसित कहकहा रावरूद्राट्टहासम् ।
यं यं यं यक्ष सुप्तं शिर कनक महा वद्धखट्वाङगनाशम्
रं रं रं रंगरंग प्रहसित वदनं पिंगकस्याश्मशानम् ।
सं संसं सिद्धिनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ।। 8 ।।
एवं यो भावयुक्तं पठति च यतः भैरवस्याष्टकं हिं ।
निर्विघ्नं दुःखनाशं असुर भयहरं शाकिनीनां विनाश ।
दस्युर्न व्याघ्र सर्पः घृति विहसि सदा राजशस्त्रोस्तथाज्ञात ।
सर्व नशयंति दुरा ग्रह गणविषमाश्चेति तांश्चेति सिद्धिः ।। 9||
इति विश्वसारोद्धारेक्षेत्रपालभैरवाष्टकस्तोत्रम् सम्पूर्णम् ।।
स्वामी कार्तिकेय की प्रार्थना
ॐ नमः प्रणवार्थाय प्रणवार्थविधायने । प्रणवाक्षरबीजाय प्रणवाय नमो नमः ।। वेदान्तार्थस्वरुपाय वेदान्तार्थविधायने । वेदान्तार्थविदे नित्यं विदिताय नमो नमः ।। नमो गुहाय भूतानां गुहासु निहिताय च । गुह्याय गुह्यरूपाय गुह्यागम विदे नमः ।। अणोरणीयसे तुभ्यं महतोऽपि महीयसे । नमः परावरज्ञाय परमात्मस्वरूपिणे ।। स्कन्दाय स्कन्दरूपाय मिहिरारूणतेजसे नमो मन्दारमालोद्यन्मुकुटादिमृते सदा ।। शिवशिष्याय पुत्राय शिवस्य शिवदायने । शिवप्रियाय शिवयोरानन्दनिधये नमः ।। गाडेगयाय नमस्तुभ्यं कार्तिकेयाय धीमते । उमापुत्राय महते शरकाननशायिने ।। षडक्षर शरीराय षडविधार्थ विधायने । षडध्वातीतरूपाय षण्मुखाय नमो नमः ।। द्वादशायतनेत्राय द्वादशोद्यतबाहवे। द्वादशायुध धाराय द्वादशात्मन्नमोऽस्तुते ।। चतुर्भुजाय शान्ताय शक्ति कुक्कुटधारिणे । वरदाय विहस्ताय नमोऽसुरविदारण ।। गजवल्ली कुचालिप्त कुकुमाङ्कित वक्षसे । नमो गजाननानन्दमहिमा नन्दितात्मने ।। ब्रह्मादिदेव मुनिकिन्नर गीयमानगाथ विशेषशुचि चिन्तित की धाम्ने । वृन्दार
कामल किरीट विभूषण स्रक्पूज्याभिराम पदपक ज ते नमस्तुते ।।
इति स्कन्धस्तवं दिव्यं वामदेवेन भाषितम । य पठेच्छृणुयाद्वापि स याति परमां
गतिम् ।। महाप्रज्ञाकरं ह्येतच्छिवभक्ति विवर्द्धनम् । आयुरारोग्य धनकृत्सर्वकामप्रदं
सदा ।। इति स्तुत्वा वामदेवो देवं सेनापति प्रभुम् । प्रदक्षिणात्रयं कृत्वा प्रणम्य
भुवि दण्डवत ।। साष्टांग च पुनः कृत्वा प्रदक्षिणनमस्कृतं । अभक्त स्तस्य
विनियावनतो द्विजा ।। शिव पुराण ।।
मां की स्तुति
ॐ परं ब्रह्म परं ज्योतिः प्रणवद्वन्दरूपिणी । अहमेवास्मि सकलं मदन्यो नास्ति
कन्चन ।। निराकाराऽपि साकारा सर्वतत्वस्वरूपिणी । अप्रतगुणा नित्या
कार्यकारणरूपिणी ।। कदाचिदृयिताकारा कदाचित्पुरुषाकृतिः ।
कदाचिदुभयाकारा सर्वाकाराऽहमीश्वरी ।।विरन्चिः सृष्टिर्ताऽहं जगत्पाताऽहमच्युतः ।
रूद्रः संहारकर्ताऽहं सर्वविश्वविमोहिनी ।। कालिकाकमलाबाणीमुखाः सर्वाहिशक्तयः । मदंशादेव संन्जातास्तथेमाः सकला कलाः ।। मत्प्रभावान्निताः सर्वे युष्माभिर्हितिनन्दनाः ।। तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ।। यथा दारूमयीं योषा नर्तयत्यैन्द्रजालिकः । तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ।। यभ्दया द्वाति पवनः सर्व दहति हव्यभुक् ।
लोकपालाः प्रकुर्वन्ति स्वस्वकर्माण्यनारतम् ।। कदाचिदेववर्गाणां
कदाचिद्दितिजन्मनाम् । करोमि विजयं सम्यकस्वतन्त्रा निजलीलया ।। अविनाशि
परं धाम मायातीतं परात्परम् । श्रुतयो वर्णयन्ते यत्तद्रूपं तु मभवहि ।। सगुणं
निर्गुणं चेति मद्रूपं द्विविधं मतम् । मायाशबलितं चैकं द्वितीयं तदनाश्रितम् ।।
एवं विज्ञाय मां देवा स्वं स्वं गर्व विहाय च । भजत प्रणयोपेताः प्रकृति मां
सनातनीम् । । ।स्तोत्र पाठ समाप्त करें।।
(पूजा के अन्त में कोई भी एक आरती करें)
आरती श्री गणेश जी की
जय गणेश, जय गणेश, जय गणेश देवा
माता जाकी पारवती, पिता महादेवा ।।
एक दंत दयावंत, चार भुजा धारी ।
मस्तक पर सिन्दूर सोहे, मूसे की सवारी ।। जय गणेश० ।।
अंधन को आंख देत, कोढ़िन को काया ।
बांझन को पुत्र देत, निर्धन को माया ।। जय गणेश०
हार चढ़े, फूल चढ़े और चढ़े मेवा ।
लड्डुअन का भोग लगे, संत करे सेवा
जय गणेश, जय गणेश, जय गणेश देवा
माता जाकी पारवती, पिता महादेवा ।।
।। जय गणेश० ।।
आरती जय जगदीश हरे
ॐ जय जगदीश हरे, स्वामी जय जगदीश हरे । भक्तजनों के संकट क्षण में दूर करे ।। ॐ ।।
जो ध्यावे फल पावे, दुःख बिनसे मन का । सुखसंपति घर आवे कष्ट मिटे तनका ।। ॐ ।।
माता पिता तुम मेरे, शरणगहूँ किसकी । तुम बिन और न दूजा, आस करूं जिसकी ।। ॐ | |
तुम पूरण परमात्मा, तुम अन्तर्यामी ।
पारब्रह्म परमेश्वर तुम सबके स्वामी ।। ॐ ।।
तुम करूणा के सागर, तुम पालनकर्ता ।मैं मूरख खलकामी, कृपा करो भर्ता ।। ॐ । |
तुम हो एक अगोचर, सबके प्राणपति ।
किस विधि मिलूं दयामय तुमको में कुमती | |ॐ| |
दीन बन्धु दुःख हर्ता, तुम रक्षक मेरे |
अपने हाथ उठाओ, द्वार पड़ा तेरे | |ॐ | |
विषय विकार मिटाओ, पाप हरो देवा ।
श्रद्धा भक्ति बढ़ाओ, सन्तन की सेवा ।। ॐ ।।
शिव आरती
जय शिव ओंकारा, भज जय शिव ओंकारा । ब्रह्मा विष्णु सदाशिव, अर्द्धांगी धारा ।। जय
एकानन चतुरान्न पंचानन राजे ।
हंसानन गरूड़ासन वृषवाहन साजे ।। जय
दो भुज चार चतुर्भुज दशभुज अती सोहे ।
तीनों रूप निरखते, त्रिभुवन जन मोहे ।। जय
अक्षमाला बन माला मुण्डमाला धारी ।
त्रिपुरारी कंसारी करमाला धारी ।। जय
श्वेताम्बर, पीताम्बर, बाघाम्बर अंगे
सनकादिक गरूड़ादिक भूतादिक संगे ।। जय
कर मध्य सुकमण्डलु चक्र शूल धारी ।
सुखकारी दुखहारी जग पालन कर्ता ।। जय
ब्रह्मा विष्णु सदाशिव जानत अविवेका |
प्रणावाक्षर में शोभित ये तीनों एका | |जय
त्रिगुण स्वामि की आरती जो कोई नर गावे |
कहत शिवानन्द स्वामी मनवांछित फल पावे ।। जय
गंगा-जी-को नमस्कार-करे-
पापापहारि दुरितारि तरंग धारि ।
शैल प्रचारि गिरिराज गुपविदारि ।।
झंकारकारि हरिपाद रजोऽपहारि ।
गांग पुनानु सतंत शुभकारि वारि ।।
गांग वारि मनोहारि मुरारि चरणच्युतम् । त्रिपुरारि शिरश्वारि पापहारि पुनातुमाम् ।
सायंकालिक श्री भगवत्स्तुतिः
भाष्यं येन सुभाषितं मतिमता वेदान्तसूत्रादिषु,
विद्याम्भोधिरतारि च त्रिभुवनाचार्येण येनात्र सः ।
मिथ्याब्रह्मावदप्रहारविकलश्रुत्यङ्ग रक्षापटू,
रामानन्दयतिः सदा विजयते योगीन्द्र चूडामणिः ।। १
दुष्टान्तान्तर संस्कृतिव्रजवतामाविद्यसम्पद्धतां,
श्रद्धाभक्तिविवर्जितां पथवतां मोहादहन्तावताम्
वेदद्रोहवतां विधाय शमनं धर्मे च तन्स्थापयन्,
रामानन्दमुनिर्जगत्यगुरूर्जीयाद्यतीन्द्रो महान् ।। २ ।।
रामं रत्न किरीट कुण्डल युतं, केयूरहारान्वितं,सीतालंकृतवामभागममलं, सिंहासनस्थं विभुम् ।
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा,
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ।। ३ ।।
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे,
मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभजनसुते तत्त्वञ्चसद्भिः परं,
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ।। ४ ।।
श्रीमन्तं श्रुतिवेद्यमद्भुतगुणग्रामाप्यरत्नाकर,
प्रेयः स्वेक्षणसंसुलजितमही, जाताक्षिकोणेक्षितम्
भक्ताशेषमनोभिवांछितचतुर्वर्गप्रदस्व मं,
रामं स्मेरमुखाम्बुजं शुचि महानीलाश्मकान्ति भजे ।। ५ ।।
रामो राजमणिः सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः | रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं, रामे चित्तलयः सदा भवतु मे हे राम ! मामुद्धर ।। ६ ।।
कस्तुरोतिलक ललाटपटले,वक्षस्थले कौस्तुभं,
नासाग्रे वरमौक्तिक करतले, वेणु, करे कंकणम् ।
सर्वाङगे हरिचन्दनं सुललित कंठे च मुक्तावली-
गोपस्त्री परिवेष्टितो विजयते गोपालचूडामणिः ।। ७ | |
फुल्लेन्दीवरकान्ति मिन्दुवदनं, वर्हावतंसप्रियं,
श्रीवत्सांकमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्
गोपीनां नयनोत्पलार्चिततनुं, गो-गोपसंघा वृतं,
गोविन्द कलवेणुवादनपरं, दिव्यांगभूषं भजे ।। ८।।
ध्येयं सदा परिभवघ्नमभिष्टदोऽहं,
तीर्थास्पदंशिवविरंचिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल !! भवाब्धिपोतं,
वन्दे महापुरूष !ते चरणारविन्दम् ।। ६ ।।
त्वक्तवा सुदुस्त्यजसुरेप्सितराजलक्ष्मी,धर्मिष्ठ आर्यवचसा यद्गादरण्यम्
मायामृगं दयितयेप्सितमन्वधावद,
वन्दे महापुरूष ! ते मरणारविन्दम् ।। १० ।।
यस्यामलं नृपसदस्सु यशोऽधुनापि,
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् 1
तन्नकपाल – वसुपाल-किरीटजुष्ट,
पदाम्बुजं रघुपतेः शरणं प्रपद्ये ।। ११ ।।
वालं नवीनशतपत्रविशालनेत्र,
विम्बाधरं सघनमेघरूचिं मनोज्ञम्
मन्दस्मितं मधुरसुन्दरमन्दयानं,
श्री नन्दनन्दनमहं मनसा नमामि ।। १ २ ।।
आर्तप्रपन्नपरिपालक ! राघवेश,
दुःखाब्धिमग्नजनरक्षणसम्प्रवृत !
श्रीभारतीयजनतां तव भक्तिभाज,
त्रायस्व दीर्घविपदम्बुधिमापतन्तीम ।। १३ ।।
वन्दे विदेहतनयापदपुण्डरीकं,
कैशोरसौरभसमाहृतयोगिचित्तम् ।
हन्तुत्रितापमनिशं मुनिहंससेवयं,
सन्मानसालिपरिपीतपरागपुजम् ।। १ ४ ।।
धन्यास्त एव तव देवि ! पदारविन्दस्यन्दायमानमकरन्दमहर्निशं ये ।
भृङगायमानमनसो नितरां भजन्ते,
भावावबोधनिपुणाः परदेवतायाः ।। १५ ।।
श्रीरामचन्द्रचरणौ मनसा स्मरामि,
श्रीरामचन्द्रचरणौ वचास गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि,
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।। १६ ।।
श्रीराम ! गोविन्द ! मुकन्द कृष्ण
श्रीनाथ ! विष्णो ! भगवन्मुरारे !
श्रीवल्लभानन्त ! जगन्निवास !
श्रीराम ! राजेन्द्र ! नमो नमस्ते ।। १७ ।।
ताराप्रकाशे च विधुप्रकाशे,
रविप्रकाशेऽप्यनल प्रकाशे |
यस्य प्रकाशः परमोऽस्ति हेतुः,
स रामचन्द्रः शरणं ममास्तु ।। १८ ।।
मुनीन्द्रगुह्य परिपूर्णमेक,
कलानिधिं कल्मषनाशहेतुम् 1
परात्परं यत्परमं पवित्र,
नमामि रामं महतो महान्तम् ।। १६ ।।
नीलाम्बुजश्यामलकोमलांग,
सीतासमारोपितवामभागम् ।
पाणौ महाशायकचारूचापं, नमामि राम रघुवंशनाथम् ।। २० ।।
माता रामो मत्पिता रामचन्द्रः,
स्वामी रामो मत्सखा रामचंद्रः ।
सर्वस्वं मे रामचंद्रो दयालुर्नोनयं,
जाने नैव जाने न जाने ।। २१ ।।
“ॐ”
